SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (१६६) श्रीलघुहेममभाव्याकरणम्. विक्षिपः ॥ मियः । किरः। गिरः । ज्ञः ॥ वो विष्किरो वा । ४ । ४ । ९६ ॥ पाच्ये निपात्यते । विष्किरः, विकिरो वा पक्षी ॥ गेहे ग्रहः ॥ ५।१। ५५ ॥ कः ॥ गृहम् । गृहाः ॥ उपसर्गादातो डोऽश्यः ॥ ५। १ । ५६ ॥ धातोः ॥ आह्वः। उपसर्गादिति किम् ? । दायः । अश्य इति किम् ? । अवश्यायः ॥ व्याघ्रा प्राणिनसोः ॥ ५। १ । ५७ ॥ निपात्येते । व्याघः प्राणी ॥ आघ्रा नासिका ॥ , घ्रामापा दृशः शः ॥ ५। १। ५८ ॥ जिघ्रः । उद्धमः । पिवः । उद्धयः । उत्पश्यः ॥ साहिसातिवेयुदेजिधारिपारिचेतेरनुपसर्गात्॥५॥१॥५९॥ ण्यन्ताच्छः ॥ साहयः । सातयः । वेदयः । उदेजयः। धारयः। पारयः । चेतयः । अनुपसर्गादिति किम् ? । प्रसाहयिता ॥ लिम्पविन्दः ॥ ५। १।६०॥ अनुपसर्गाच्छः । लिम्पः । विन्दः ।। निगवादेर्नानि ॥ ५। १॥ ६१ ॥ यथासङ्ख्य लिम्पविन्दः शः ॥ निलिम्पा देवाः । गोविन्दः। कुविन्दः । नानीति किम् ? । निलिपः। वा ज्वलादिदुनीभूग्रहास्तोर्णः॥५।१।६२॥ अनुपसर्गात् ॥ ज्वलः । ज्वालः । चलः । चालः । दवः । दावः । नयः । नायः। भवः । भावः । व्यवस्थितविभाषेयम् ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy