SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ( १६४ ) श्रीलघुहेमप्रभाव्याकरणम्. टकरणे । शक्ता कृत्याश्च । भवता खलु भारो बाह्यः ॥ ॥ इति कृत्यप्रत्ययाः ॥ कतृचौ ॥ ५ । १ । ४८ ॥ धातोः कर्त्तरि ॥ पाचकः । पक्ता ॥ अ च ॥ ५ । ४ । ३७ ॥ कर्त्तरि वाच्ये ॥ भवान् कन्याया वोढा ॥ तुः ॥ ४ । ४ । ५४ ॥ अनात्मनेपदविषयात् क्रमः परस्य स्वाद्यशित आदिरिट् । क्रमिता ॥ अनात्मन इत्येव । प्रक्रन्ता ॥ त्रने वा ॥ ४ । ४ । ३॥ विषयभूतेजेर्वी ॥ प्रवेता । प्राजिता । प्रवयणः प्राजनो दण्डः । अनो वक्ष्यते ॥ अच् ॥ ५ । १ । ४९ ॥ धातोः ॥ करः । हरः ॥ अचि ।। ३ । ४ । १५ ॥ यङो लुग् ॥ चेच्यः । नेन्यः ॥ नोतः ॥ ३ । ४ । १६ ॥ विहितस्य यङोचि परे लुप ॥ योयूयः । रोरूयः ॥ लिहादिभ्यः ॥ ५ । १ । ५० ।। अन् || लेहः । शेषः । बहुवचनमाकृतिगणार्थम् || सयसितस्य ॥ २ । ३ । ४७ ॥ परिनिवेः सस्य षः ॥ परिषयः । निषयः । विषयः । परि षितः । निषितः । विषितः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy