SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ (१०६) श्रीलघुहेमप्रभाव्याकरणम्. मघवा इन्द्रोऽजीजनदित्यर्थः । अथवा णिज् बहुलमित्येव सिद्धे सूत्र - मत्र, छिद्रान्धादय उदाहरणार्थास्तेनादन्तेष्वनुक्ता अपि बहुलं द्रष्टव्याः ॥ ॥ इति वृत् युजादयः परस्मैपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामदृद्धिविजयचरणकम छमिलिन्दायमानान्तेवासिसंविग्नश। खीयतपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां चुरादयो णितो धातवः ॥ भूङः प्राप्तौ णिङ् ॥ ३ । ४ । १९ ॥ धातोर्वा ॥ भावयते । भवते । प्राप्नोतीत्यर्थः । अन्यत्र भवतीत्येव । प्राप्त्यर्थाभावेऽपि क्वचिदात्मनेपदम् । प्राप्त्यर्थेऽपि परस्मैपदमित्यन्ये ॥ प्रयोक्तृव्यापारे णिग् ॥ ३ । ४ । २० ॥ धातोर्वा ॥ कारयति । वासयति भिक्षा । राजानमागमयति । कंसं घातयति । पुष्येण चन्द्रं योजयति । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति । भावयति । भावयते ।। ओजन्तस्थापवर्गेऽवर्णे ॥ अबीभवत् । जुं इति सौत्रो धातुः, अजीजवत् । अयीयवत् । अरीरवत् । अलीलवत् । अपीपवत् । अमीमवत् । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्णान्त इति किम् ? बुभूषति ॥ श्रुस्तुलुच्योर्वा ॥ ४ । १ । ६१ ॥ सनि द्विवे पूर्वस्यतोवर्णान्तायामन्तस्थायां परस्यामि ॥ अशिश्रवत् । अशुश्रवत् । असिस्रवत् । असुस्रवत् । अदिद्रवत् । अदुद्रवत् ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy