________________
स्वरान्ता लि
:
(३७ )
-
क्विवृत्तेरसुधियस्तौ ॥२।१। ५८ ॥
धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ यवौ ॥ मध्यौ । प्रध्या प्रध्याम् । असुधियः किम् ? । सुष्टु ध्यायतीति सुधीः । सुधियों। किबन्तेनैव वृत्तेरिति किम् ? । शुद्धा धीर्ययोस्तौ शुद्धधियौ। गतिकारकङस्युक्तानां प्राक्प्रत्ययोत्पत्तेः कृदन्तेन समासः। एवं परमथियौ । दुधियौ। यवक्रियौ। सह खेन वर्तते सकः तमिच्छति सखायमिच्छतीति वा सखीयति सखीयतीति सखीः। सख्यौ। सुतमिच्छतीति सुतीः । सख्युः २ । सुत्युः २। लूनं क्षामं प्रस्तीममिच्छतीति लूनीः क्षामीः प्रस्तीमीः । एषां ङसिङसोर्यत्वे कृते ॥
तादेशोऽषि ॥२।१।६१। । परे कार्ये स्यादिविधौ च कर्तव्ये असन् ज्ञेयः॥ इति नत्वमत्वयोरसत्वादुर् । लन्युः २ । साम्युः २। शुष्कीपक्वीशब्दयोग्नु कत्ववत्वयोरसत्वात् तीत्वेऽपि यत्वाभावान्न उर । शुष्किाम २ क्वियः २ । उनीः । उन्न्यौ । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयतीति परमनीः। परमन्यौ। कर्मधारये तु परमनियौ । इतीदन्ताः॥ साधुर्मुनिवत् । इत्युदन्ताः। हूहूः । हूह्रौ । हूतः । हुहुम् । हूह्रौ। हूहून्। अतिचमूः। अतिचम्वौ । शेषं बहुश्रेयसीवत् । सुलूः । सुल्यौ । खलपूः । खलप्वौ । उल्लूरुन्नीवत् । भूः सुधीवत् । इन्भवतीति इन्भूः ॥
दृन्पुनवर्षाकारैर्भुवः ॥ २॥ १। ५९ ॥ किवृत्तेरुवर्णस्य स्वरादौ स्यादौ वः॥ इन्भ्वौ । पुनभ्वौं । वभ्वौ । कारभ्वौ । काराभ्वाविति केचित्। नियमसूत्रमिदम्। तेन स्वयंभुवौ । दृग्भुवौ। औणादिको उम्भूईहूवत् । कटपूः। कट वौ ॥
स्यादौ वः ॥ २॥ १। ५७ ॥