________________
रेफसन्धिप्रकरणम्.
करोति २ । गीः काम्यति २ ॥
( २५ )
निर्दुर्बहिराविष्प्रादुश्चतुराम् ॥ २ । ३ । ९ ॥
रस्य कखपफ पः ॥ निष्कृतम् इत्यादि । बहुवचनान्निस दुसोरपि ।। सुचो वा ॥ २ । ३ । १० ॥
रस्य कखपफ षो वा ।। द्विष्करोति ३ । चतुष्फलति ३ ॥ सोऽपेक्षायाम् ॥ २ । ३ । ११ ॥
स्थानिनिमित्तयोरस्य कखपफि षः ॥ सर्पिष्करोति ३ । भद्रवादति ३ । अपेक्षायां किम् ? । परमसर्पिः कुण्डम् २ ॥ नैकार्थेऽक्रिये ॥ २ । ३ | १२ ॥
पदे यत्कखपफं तत्र परे इसुस्प्रत्ययान्तस्य रस्य षः ॥ सर्पिः कालकम् २। यजुः पीतकम् २ | एकार्थ इति किम् ? । सर्पिष्कुम्भे ३ । अक्रिय इति किम ? । सर्पिष्क्रियते ३ ॥
समासेऽसमस्तस्य ॥ २ । ३ | १३ ॥
पूर्वेण इसुस्प्रत्ययान्तस्य रः कखपफि षः ॥ सर्पिष्कुम्भः । धनुष्फलम् । समास इति किम् ? । तिष्ठतु सर्पिः पिब त्वमुदकम् । असमस्तस्येति किम् ? । परमसर्पिः कुण्डम् |
भ्रातुष्पुत्रकस्कादयः ॥ २ । ३ । १४ ॥
साधवः ॥ भ्रातुष्पुत्रः । परमयजुष्पात्रम् । कस्कः । कौतस्कृतः । बहुवचनमाकृतिगणार्थम् ॥
वाहर्पत्यादयः ॥ १ । ३ । ५८ ॥