SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ www - ~ - - - - - -~-~n ~ ~ ~ ~ ~ ~ ~ ~ (२४) श्रीलघुहेमप्रभाव्याकरणम् नमस्कृत्य । पुरस्कृत्य । गतेः किम् ? । नमःकृत्वा । साक्षादादिअन्यर्थे नमसो वा गतिसंज्ञा॥ तिरसो वा ॥ २।३।२॥ गतेरस्य कखपफि सः॥ तिरस्कृत्य । तिरःकृत्य । गतेः किम् ?। तिरस्कृत्वा काष्ठं गतः॥ शिरोऽधसःपदे समासैक्ये ॥ २ ॥ ३ ॥ ४॥ र: सः॥ शिरस्पदम्। अधस्पदम् । समासे किम् ?। शिरः पदम् । ऐक्य इति किम् ? । परमशिरः पदम् ॥ अतः कृकमिकंसकुम्भकुशाकर्णीपायेऽनव्ययस्य। २।३। ५॥ रः सः समासैक्ये ॥ अयस्कृद । यशस्कामः । अयस्कंसः । पयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् ॥ प्रत्यये ॥ २।३।६॥ अनव्ययस्य रस्य पाशकल्पके सः ॥ पयस्पाशम् । पयस्कल्पम् । यशस्कम् ॥ रोः काम्ये ॥ २ । ३।७॥ अनव्ययस्य रोरेव सः॥ पयस्काम्यति । नियमः किम् ? । अहः काम्यति ॥ नामिनस्तयोः षः॥२।३।८॥ सर्पिष्पाशम् । सर्पिष्काम्यति । तयोरिति किम् ?। मुनिः
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy