SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ शीतोष्णादृतौ ॥ ७ । ३ । २० ॥ वर्त्तमानात् को वा । शीतक ऋतुः । उष्णक ऋतुः ॥ लनवियतात्पशौ ॥ ७ । ३ । २१ ॥ को वा । लूनकः । वियातकः पशुः || स्नादसमाप्तौ ॥ ७ । ३ ।. २२ ॥ गम्यायां कः । वेदं समाप्य स्त्रातः स्नातकः ॥ तनुपुत्राणुवृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादन रिक्ते ॥ ७ । ३ । २३ ॥ यथासङ्ख्यं कः । तनुकं सूत्रम् । पुत्रकः कृत्रिमः । अणुको निपुणः । वृहतिका आच्छादनविशेषः । शून्यको रिक्तः ॥ भागेऽष्ठमाञ्ञः ॥ ७ । ३ । २४ ॥ वा | आष्टमो भागः ॥ ॥ षष्ठात् ॥ ७ । ३ । २५ ॥ भागे जो वा ॥ षाष्ठो भागः ॥ माने कश्च ॥ ७ । ३ । २८ ॥ भागे षष्ठाज् ञो वा । षष्ठकः षाष्टो भागः मानं चेत् ॥ एकादाकिन चासहाये ॥ ७ ॥ ३ ॥ २७ ॥ कः । एकाकी । एककः ॥ प्राग्नित्यात्कप् ॥ ७ । ३ । २८ ॥ नित्यशब्दसङ्कीर्त्तनात्प्राग्येऽर्थास्तेषु द्योत्येषु कबधिकृतो ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः ॥ त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ।। ७ । ३ । २९ ।।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy