SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रकरणम्. (२३५) - ~~ ~ ~ ~~~~~~~~~~~~~~ इकण । आपूपिकः ॥ नियुक्तं दीयते ॥६। ४ । ७०॥ प्रथमान्ताच्चतुर्थ्यर्थे इकण । तच्चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥ शाणामांसौदनादिको वा ॥६।४ । ७१ ॥ तदस्मै नियुक्तंदीयते इति विषये । शाणिका । मांसौदनिका । शाणिकी । मांसौदनिकी ॥ भक्तोदनाहाणिकट् ॥६। ४ । ७२ ॥ तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । औदनिकी। भाक्तिकः ॥ औदनिकः ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते ॥६। ४ । ७३॥ इकण । नावयज्ञिकः । पाकयज्ञिकः ॥ तत्र नियुक्ते ॥६।४। ७४ ॥ इकण । शौल्कशालिकः ॥ दौवारिकः ॥ अगारान्तादिकः ॥६।४ । ७५॥ तत्र नियुक्ते । देवगारिकः ॥ अदेशकालादध्यायिनि ॥६। ४ । ७६ ॥ सप्तम्यन्तादिकण् । आशुचिकः । सानिध्यकः । अदेशकलादिति किम् ? । स्वाध्यायभूमावध्यायी ॥ निकटादिषु वसति ॥६।४। ७७॥ इकण् । नैकटिकः । आरण्यिको भिक्षुः । वार्शमूलिकः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy