SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ( २३२ ) भीमाचीकरणम्. द्वितीयान्ताद्गच्छवीकणः । प्रतिपथिकः । प्रातिपथिकः ॥ माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ । ४ । ४० ॥ द्वितीयान्तादिकण् । दाण्डमाथकः । पादविकः । आकन्दिकः ॥ पश्चात्यनुपदात् । ६ । ४ । ४१ ।। द्वितीयान्ताद्धावतीकण । आनुपदिकः ॥ सुस्नातादिभ्यः पृच्छति ॥ ६ । ४ । ४२ ॥ द्वितीयान्तेभ्य इकण | सौस्नाविकः । सौखरात्रिकः ॥ प्रभूतादिभ्यो ब्रुवति ॥ ६ । ४ । ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः ॥ माशब्द इत्यादिभ्यः ॥ ६ । ४ । ४४ ॥ ब्रुवतीकण । माशब्दिकः । कार्यशब्दिकः । शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६।४।४५ ॥ इकणप्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दार्दुरिको वादित्रकृत् । लालाटिकः प्रमत्तः सेवाकृत् । कौककुटिको भिक्षुः ॥ 1 समूहार्थात्समवेते ॥ ६ । ४ । ४६ ॥ द्वितीयान्तादिकम् । सामूहिकः । सामाजिकः ॥ पर्षदो यः ॥ ६ । ४ । ४७ ॥ अस्माद् द्वितीयान्तात् समवेते यः । पार्षद्यः ॥ सेनाया वा ॥। ६ । ४ । ४८ ॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः ॥ धर्माधर्माच्चरति । ६ । ४ । ४९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy