SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ समिकरण. I सुतंगमादेरि ॥ ६ ॥ २ । ८५ ॥ चातुरर्थिको देशे नानि ॥ सौतंगमिः । मौनिवित्तिः ॥ बलादेर्यः ॥ ६ । २ । ८६ ॥ चातुरर्थिको देशे नाम्नि || बल्यम् । पुल्यम् ॥ अहरादिभ्योऽम् ॥। ६ । २ । ८७ ॥ चातुरर्थिको देशे नाम्नि ॥ आह्नम् । लौमम् ॥ ( १९३ ) सख्यादेरेयण् || ६ । २ । ८८ ॥ चातुरर्थिको देशे नाम्नि ॥ साखेयः । साखिदत्तेयः ॥ पन्थ्यादेरायण || ६ । २ । ८९ ॥ चातुरर्थिको देशे नानि ॥ पान्यायनः । निपातनानागमः । पाक्षायणः || कर्णादेरायनिञ् ॥ ६ । २ । ९० ॥ चातुरर्थिको देशे नाम्नि || कार्णायनिः । वाशिष्ठायनिः ॥ उत्करादेरीयः || ६ । २ । ९१ ॥ चातुरर्थिको देशे नानि ॥ उत्करीयः । सङ्करीयः ॥ नादेः कीयः ॥ ६ । २ । ९२ ॥ चातुरर्थिको देशे नानि ॥ नडकीयः । लक्षकीयः । बिल्वकीया नाम नदी ॥ बिल्वकीयादेरीयस्य ॥ २ । ४ । ९३ ॥ तद्धितयस्वरे लुक् ॥ बैल्वकाः । एवं वैणुकाः । बिल्वकीयादेरिति किम् ? | नाडकीयः ॥ कृशाश्वादेरीयण ॥ ६ । २ । ९३ ॥ चातुरर्थिको देशे नाम्नि || कार्शाश्वीयः । आरिष्टीयः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy