SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ( १९०) श्रीलघुपमभाग्याकरणम्. विकारे ऽवयवे वा फलेऽण || जाम्बवम् । जम्बु । जम्बूः । लुपि स्त्रीनपुंसकते ॥ न द्विरद्रुवयगोमयफलात् ॥। ६ । २ । ६१ ॥ विकारावयवयोः प्रत्ययः । कापोतस्य विकारोऽवयवो वेति न मयट् | अद्रुवयेत्यादि किम् ? | द्रौवयं खण्डम् । गौमयं भस्म । कापित्यो रसः ॥ पितृमातुर्व्यडुलं भ्रातरि ॥ ६ । २ । ६२ ॥ यथासंख्यम् || पितृव्यः । मातुलः ॥ पित्रोर्डामहट् || ६ । २ । ६३ ।। पितृमातुः ॥ पितामहः । पितामही । मातामहः । मातामही ॥ अवेर्दग्धे सोढदूसमरीसम् ॥ ६ | २ | ६४ ॥ अविसोढम् | अविदुसम् । अविमरीसम् ॥ राष्ट्रेऽनङ्गादिभ्यः ॥। ६ । २ । ६५ ॥ षष्ठ्यन्तेभ्यो ऽण् । शैवम् । अङ्गादिवर्जनं किम् ? । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥ राजन्यादिभ्योऽकञ् । ६ । २ । ६६ ॥ राष्ट्रे ॥ राजन्यकम् । दैवयातवकम् ॥ वसातेर्वा || ६ । २ । ६७ ॥ राष्ट्रेऽकव् ॥ वासातकम् । वासातम् ॥ भौरिक्यैषुकार्यादेर्विधभक्तम् || ६ । २ । ६८ ॥ राड्रे यथासंख्यम् ॥ भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥ निवासादूरभवे इति देशे नाम्नि ।। ६ । २ । ६९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy