SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ समिकरणम्. ( १८७ ) विकारेऽवयवे चाकम् ॥ औमकम् । औमम् । और्णकम् । और्णः कम्बलः ॥ एण्या एयञ ॥। ६ । २ । ३८ ॥ विकारेऽवयवे च ॥ ऐणेयं मांसमङ्गं वा ॥ कौशेयम् || ६ । २ । ३९ ॥ कौशेयं वस्त्रं सूत्रं वा ॥ परशव्याद्यलुक् च ॥ ६ । २ । ४० ॥ विकारेऽण् ॥ पारशवम् ॥ कंसीयाञ्यः || ६ । २ । ४१ ॥ विकारे तद्योगे यलुक् च ॥ कांस्यम् ॥ हेमार्थान्माने । ६ । २ । ४२ ॥ विकारेऽण् ॥ हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः ॥ ६ । २ । ४३ ॥ माने विकारे ॥ द्रुवयं मानम् ॥ ६ । २ । ४४ ॥ विकारे ॥ मानं संख्यादि । शतेन क्रीतं शत्यम् । शतिकम् । एवं विकारे ऽपि ॥ मानात्क्रीतवत् । हेमादिभ्योऽञ् ॥ ६ । २ । ४५ ॥ विकारेऽवयवे च यथायोगम् ॥ हैमम् । राजतः ॥ अभक्ष्याच्छादने वा मयट् ॥ ६ । २ । ४६ ॥ विकारेऽवयवे च यथायोगम् ॥ भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम् ? | मौद्गः सूपः । कार्पासः पटः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy