SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (१४४) श्रीलधुममध्यव्याकरणम्.. - मध्यान्ताद् गुरौ ।। ३ । २॥ २१॥ सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः ॥ अमूर्धमस्तकात् स्वाङ्गादकामे ॥३।२ । २२॥ अयञ्जनात् सप्तम्या उत्तरपदे न लुप् । कण्ठेकाल: । अमूर्धमस्तकादिति किम् ? । मूर्धशिखः । मस्तकशिखः ॥ बन्धे घनि नवा ॥३॥ २॥ २३ ॥ अयानात् सप्तम्या न लुप् । हस्तेबन्धः । हस्तबन्ध : । चक्रेबन्धः । चक्रबन्धः । घनीति किम् ? । अजन्ते, हस्तबन्धः ।। कालात्तनतरतमकाले ॥ ३ ॥ २ ॥ २४ ॥ अयानान्तात् सप्तम्या वा न लुप् । पूर्वाहेतनः २। पूर्वाद्धेतराम् । पूर्वाह्नतरे । पूर्वाह्नेतमाम् । पूर्वाह्नतमे । पूर्वाह्नकाले २। कालादिति किम् ? । शुक्लतरे । शुक्लतमे ॥ शयवासिवासेष्वकालात् ॥ ३।२ । २५॥ अद्यानात् सप्तम्या लुप् वा न। बिलेशयः । विलशयः । वनेवासी । वनवासी । ग्रामेवासः । ग्रामवासः ॥ वर्षक्षरवराप्सरःशरोरोमनसो जे ॥३२॥ २६ ॥ सप्तम्या उत्तरपदे वा नलुप् । वर्षेजः। वर्षजः। क्षरेजः । क्षरजः। वरेजः । वरजः । अप्सुजम् । अन्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥ द्युप्रावृड्वर्षाशरत्कालात् ॥ ३।२। २७ ॥ सप्तम्या जे उत्तरपदे न लुप्। दिविजः । प्राषिजः। वर्षामुजः। शरदिजः । कालेजः॥ अपो ययोनिमतिचरे ॥३।२। २८ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy