SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) सप्तम्याः न लुपः । अप्सवः । अप्सुयोनिः । अप्सुमतिः । 1 # अप्सुचरः ।। मासमम नेसिद्धस्थे ॥ ३ ॥ २ ॥ २९ ॥ सप्तम्या अलुप् । स्थण्डिलवर्ती । सांकाश्वसिद्धः । समस्थः ॥ षष्ठयाः क्षेपे ॥ ३ । २ः ॥ ३० ॥ गम्ये उत्तरपदे न लुप् । चौरस्यकुलभूः ॥ पुत्रे वा ।। ३ । २ । ३१ ॥ उत्तरपदे क्षेपे षष्ठ्या न लुप् । दास्याःपुत्रः । दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।। ३ । २ । ३२ ॥ परस्याः षष्ट्या यथासंख्यं लुन । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः || अदसोऽकञायनणोः ॥ ३ । २ । ३३ ॥ अदसः परस्याः षष्ठ्या अकविषये उत्तरपदे आयनणि च परे न लुप् । आमुष्यपुत्रिका । आम्मुष्यायणः ।। देवानांप्रियः ।। ३ । २ । ३४ ॥ षष्ठ्या लवभावो निपात्यते । देवानांप्रियः ॥ शेपपुच्छलाङ्गूलेषु नाम्नि शुनः ॥ ३ । २ । ३५ ॥ परस्याः षष्ठ्या उत्तरपदेषु न लुप् । शुनःशेषः । शुनः पुच्छः । शुनोलाङ्गुलः ॥ वाचस्पतिवास्तोष्वतिदिवस्पतिदिवोदासम् ॥३२॥३६॥ षष्ठ्यपि निपात्यते नाम्नि । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः ॥ ऋतां विथोयोनिसम्बन्धे ॥ ३ । २ । ३७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy