SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ समासमकरणम्... (१३१) तत्पुरुषादट् । देवराजः । राजसखः । नान्तनिर्दशादिह न । मद्रराज्ञी ॥ राष्ट्राख्याद् ब्रह्मणः ॥ ७।३ । १०७॥ तत्पुरुषादट् । मुराणब्रह्मः । राष्ट्राख्यादिति किम् ? । देवब्रह्मा नारदः ॥ कुमहद्भ्यां वा ॥ ७।३ । १०८॥ ब्रह्मणस्तत्पुरुषादट् । कुब्रह्मः । कुब्रह्मा । महाब्रह्मः। महाब्रह्मा ।। ग्रामकौटात् तक्ष्णः ॥७।३ । १०९ ॥ तत्पुरुषादट् । ग्रामतक्षः । कौटक्षः ॥ गोष्ठातेः शुनः ॥७।३।११० ॥ तत्पुरुषादट् । गोष्ठश्वः । अतिश्वो वराहः ॥ प्राणिन उपमानात् ॥ ७ । ३। १११ ।। शुनस्तत्पुरुषादट् । व्याघ्रश्वः । प्राणिन इति किम् ? । फलकमा ॥ .. अप्राणिनि ॥ ७।३। ११२ ॥ - य उपमानभूतः श्वा तदन्तात् तत्पुरुषादट् । आकर्षश्वः । अमाणिनीति किम् ? । वानरवा ॥ पूर्वोत्तरमृगाच्च सक्थनः ॥ ७।३ । ११३ ॥ उपमानार्थात् तत्पुरुषादट् । पूर्वसक्यम् । उत्तरसक्यम् । मृगसक्थम् । फलकसक्थम् ॥ उरसोऽग्रे॥ ७।३।११४ ॥ तत्पुरुषादट् । अश्वोरसम् । सेनाया मुखमित्यर्थः। अधोरसम् प्रधानमित्यर्थः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy