SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ समासप्रकरणम्. ( ११५ ) योग्यतावीप्सार्थानतिवृत्तिसादृश्ये ॥ ३ । १ । ४० ॥ अव्ययं नाम्ना सह पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थमर्थं प्रति । यथाशक्ति । सशीलमनयोः ॥ # यथाऽथा ।। ३ । १ । ४१ ॥ नाम नाम्ना पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रमधीष्व । अथा इति किम् । यथा चैत्रस्तथा मैत्रः ॥ प्रतिपरोऽनोरव्ययीभावात् ॥ ७ । ३ । ८७ ॥ अक्ष्णः समासान्तोऽत् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् ॥ अनः ॥ ७ । ३ । ८८ ॥ अव्ययीभावादत् ॥ नोऽपदस्य तद्धिते ॥ ७ । ४ । ६१ ॥ अन्त्यस्वरादेर्लुक् । उपतक्षम् ॥ नपुंसकाद्वा ॥ ७ । ३ । ८९ ॥ अनोऽव्ययीभावादत् ॥ उपचर्मम् | उपचर्म ॥ 1 गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवग्या | ७ । ३ । ९० । अव्ययीभावादत् । अन्तर्गिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । उपस्रुचम् । उपस्रुक् ॥ सङ्ख्याया नदीगोदावरीभ्याम् ॥ ७ । ३ । ९१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy