________________
श्रोलघुहेमप्रभान्याकरणम्.
अव्ययीभावा निपात्यन्ते यथायोगमन्यस्य पूर्वस्य वार्थे ॥ तिष्ठद्गु कालः । अधोनाभम् । आयतीगवम्। तिष्ठदग्वादिराकृतिगणः । नित्यं प्रतिनाऽल्पे ॥ ३ । १ । ३७ ॥
नामाव्ययीभावः समासः ॥ शाकप्रति । अल्प इति किम् ? । वृक्षं प्रति विद्युत् ॥ सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ||३|१|३८॥
( ११४ )
नित्यं समस्यते सोऽव्ययीभावः ॥ एकपरि, अक्षपरि, शलापरि, एकेनाक्षेण शवाकया वा न तथा वृत्तं यथा पूर्व जये इत्यर्थः । सङ्ख्यादि किम् ? | पाशकेन नं तथा वृत्तम् । द्यूत इति किम् ? | रथस्याक्षेण न तथा वृत्तम् ॥
विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सदृक्सम्पत्साकल्यान्तेऽव्य
यम् ॥ ३ । १ । ३९ ॥
नाम नाम्ना पूर्वपदार्थे वाच्ये नित्यं समस्यते सोऽव्ययीभावः । विभक्तिर्विभक्त्यर्थः कारकम् अधिस्त्रि। समीपे उपकुम्भम् । ऋद्धेराधिक्यं समृद्धि:, सुमद्रम् । विगता ऋडियृडिः, दुर्यवनम् । अर्थाभावे, निर्मक्षिकम् । अत्ययोऽतीतत्वम् अतिवर्षम् । असम्प्रतीति सम्मति उपभोगाद्यभावः, अतिकम्बलम् । पश्चादर्थे, अनुरथम । क्रमे, अनुज्येष्ठम्। ख्यातौ, इतिभद्रबाहु । युगपदर्थे, सचक्रं धेहि । सदृशि, सव्रतम् । सम्पदि, सब्रह्म साधूनाम् । साकल्ये, सतृणमभ्यवहरति । अन्ते, सपिण्डेषणमधीते ।
अकालेऽव्ययमावे ॥ ३ । २ | १४६ ॥
सहस्य स उत्तरपदे । इति सः । अकाले किम् ? । सहपूर्वाह्नम् ॥