SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ समासमकरणम्... (१९३) w wwwwwwwwwwwww पारेमध्येऽग्रेन्तः षष्ठया वा ॥३।१। ३० ॥ समासोऽव्ययीभावः ॥ पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । अन्तगिरम् । अन्तगिरि । पक्षे, गङ्गापारम् । गङ्गामध्यम् । बनानम् । गिर्यन्तः ॥ यावदियत्त्वे ॥३।१ । ३१ ॥ नाम नाम्ना पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ यावदित्यनव्ययं चेह गृह्यते । अव्ययमेवेत्यन्ये । यावदमत्रं भोजय । इयत्त्व इति किम् ? । यावद्दत्तं तावद् भुक्तम् ॥ पर्यपाबहिरचपञ्चम्या ॥३।१ । ३२ ॥ पूर्वपदार्थ वाच्ये समासोऽव्ययीभावः ॥ परित्रिगर्त्तम् । अप. त्रिगर्त्तम् । आग्रामम् । वहिामम् । प्राग्रामम् । पञ्चम्येति किम् । परि वृक्षं विद्युत् ॥ लक्षणेनाभिप्रत्याभिमुख्ये ॥३।१। ३३ ॥ पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? । मुरघ्नं प्रति गतः । पूर्वपदार्थ इत्येव । अभ्यङ्का गावः ॥ दैर्येऽनुः ॥३।१।३४॥ लक्षणवाचिना पूर्वपदार्थे समासोऽव्ययीभावः ॥ अनुगङ्गं वाराणसी । दैर्घ्य इति किम् ? । वृक्षमनु विद्युत् ॥ - समीपे ॥३।१।३५॥ अनुः समीपिवाचिना पूर्वपदार्थे समस्यते सोऽव्ययीभावः ॥ अनुवनमशनिर्गता ॥ तिष्ठग्वित्यादयः ॥ ३ । १ । ३६ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy