SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર 303 अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह - जत्थ कसायणिरोहो बंभ जिणपूयणं अणसणं च । सो सव्वो चेव तवो, विसेसओ मुद्धलोयंमि ॥२६॥ व्याख्या - यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तं अनशनं च भोजनत्यागः सोत्ति तत्सर्वं भवति तपो विशेषतो मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्त्तते न पुनरादित एव तदर्थं प्रवर्तितुं वा तपस्यति । यदाह - "मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः" इति मोक्षार्थघटना चागमविधिनैवालंबनांतरस्नायाभोगहेतुत्वादि गाथार्थः ॥२६॥ न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वा चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह - एवं पडिवत्तिए एत्तो मग्गाणुसारिभावाओ । चरणं विहयं बहवे, पत्ता जीवा महाभागा ॥२७॥ व्याख्या - एवमित्युक्तानां सार्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तपोरूपोपचारेण तथा इति उक्तरूपात्कषायादिनिरोधप्रधानात्तपसः पाठांतरेण एवमुक्तकरणेन विहितमाप्तोपदिष्टं बहवः प्रभूताः प्राप्ता अधिगता जीवाः सत्त्वा महाभागा महानुभावा इति गाथार्थः ॥२७॥ तथा - सव्वंगसुंदरं तह णिरुज्जसिहो परम भूसणो चेव । आयइजणणसोहग्गकप्परुक्खो तहण्णो वि ॥२८॥ पढिओ तवोविसेसो अण्णेहिं वि तेहिं तेहिं सत्थेहिं । मग्गपडिवत्तिहेऊ हंदि विणेयाणुगणेणं ॥२९॥ व्याख्या - सर्वांगानि सुंदराणि यतस्तपोविशेषात्स सर्वांगसुंदरस्तथेति समुच्चये । रुजानां रोगाणां अभावो नीरुजं तदेव शिवशिखा
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy