SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર अण्णोवि अस्थि चित्तो, तहा तहा देवयाणिओएण । मुद्धजणाणहिओ खलु, रोहिणीमाई मुणेयव्वो ॥२३॥ व्याख्या अन्यदपि अस्ति विद्यते चित्रं विचित्रं तप इति गम्यते तथा तथा तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन देवतोद्देशेन मुग्धजनानामव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात् रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि मुणेयव्वोत्ति ज्ञातव्यं पुल्लिंगता च सर्व्वत्र प्राकृतत्वादिति गाथार्थः ॥२३॥ देवता एव दर्शयन्नाह - रोहिणिअंबा तह मदपुणिया सव्वसंपया - सोक्खा । सुयसंतिसुराकाली सिद्धाइया तहा चेव ॥२४॥ व्याख्या - रोहिणी १ अंबा २ तथा मदपुण्यिका ३ सव्वसंपयासोक्खत्ति सर्वसंपत् ४ सर्वसौख्याचेत्यर्थः ५ । सुयसंतिसुरित्ति श्रुतदेवता ६ शांतिदेवताचेत्यर्थः ७ । सुयसंतिसुरित्ति इति वा पाठान्तरं व्यक्तं च काली ८ सिद्धायिका ९ इत्येता नवदेवतास्तथा चैवेति समुच्चयार्थे संवाइया चेवत्ति पाठान्तरमिति गाथार्थः ॥ २४ ॥ ततः किमित्याह ३०२ — एमाइ देवयाओ, पडुच्च अवउस्सग्गाओ जे चित्ता । णाणादेसपसिद्धा ते सव्वे चेव होइ तवो ॥ २५ ॥ व्याख्या एवमादिदेवताः प्रतीत्यैतदाराधनायेत्यर्थः अवउस्सग्गत्ति अपवसनानि अवजोषणानि वा तुः पूरणे ये चित्रा नानादेशप्रसिद्धास्ते सर्व चैव भवंति तपइति स्फुटितमिति तत्र रोहिणीतपो रोहिणी - नक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठापूजा च विधेयेति । तथांबातप: पंचसु पंचमीष्वेकाशनादि विधेयं नेमिनाथांबिकापूजा चेति । तथा श्रुतदेवता तप एकादशष्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति शेषाणि तु रूढितोऽवसेयानीति गाथार्थः ॥ २५ ॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy