SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ३ - जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वर -- गुरुगुणाष्टकम् । वसन्ततिलका-वृत्ते नागेन्द्र चन्द्रदिव सेन्द्र महेन्द्रवन्द्यमाबालशीलवृतमर्चितमात्मशुद्धम् । राजेन्द्रसूरिगुरुमंत्र कलावपूर्व, सूर्योदये तमनिशं सुगुरुं हि वन्दे ज्ञानक्रियासहितमेव हि यस्य शीलं, चारित्रपालनविधौ न च कोऽपि तुल्यः । सर्वासु दिक्षु धवला प्रसृता सुकीर्तिः, सूर्योदये तमनिशं सुगुरुं हि वन्दे क्षान्त्यादिधर्मकरणे कटिबद्ध एव, प्राज्ञैर्जनैश्च विविधैर्नुतिमाप योऽलम् । पञ्चेन्द्रियेषु विषयेषु च वीतरागः, सूर्योदये- तमनिशं सुगुरुं हि वन्दे सर्वेषु जन्तुषु हि यः करुणापरोऽभूत्, शास्त्रबोधनविधौ विगतप्रमादः । शिष्याँच सूरिगुणभारिण एव चक्रे, सूर्योदये तमनिशं सुगुरुं हि वन्दे ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy