SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ०००० 00000 सादराञ्जलीसमर्पणम् श्री राजेन्द्रगुरुर्जनोपकृतिके लीनो ह्यभून्नौमि यं, राजेन्द्रेण कृतातिधर्ममहिमा ध्यायन्ति यस्मै समे । राजेन्द्रात्तु जनाः स्वधर्मनिरता यस्यैव निर्देशगा, राजेन्द्रे गुरुसद्गुणास्तमभवन् तस्माद्भजन्तेऽखिलाः ॥ १ ॥ सत्कीर्तिर्गुरुणार्जितातिविमला ज्ञानक्रियाभ्यां बुधाः !, सञ्जित्याखिलवादिनश्च समितौ विस्तारितः सज्जयः । सच्छास्त्रैः स्वकृतैर्विदामुपकृतं राजेन्द्रकोशादिकै चक्रे चैवमनेककार्यमवनौ राजेन्द्रसूरीश्वरः ॥२॥ धर्माधर्मविवेकपूज्यविनयस्वाचारशिक्षासुखदुःखेहेतरजीवकर्मनिखिलव्याख्यानकर्त्ताङ्गिनाम् । सत्यासत्यपथप्रबोधनपटुर्ज्ञानोदधिः सद्गुणी, सच्चारित्रयुतोऽजनिष्ट मतिमान् विश्वोपकारी गुरुः ॥३॥ संस्थाप्य व्रतसत्तरौ भवनिधेस्ततुं सुखं दुस्तरात्, प्रीत्या ज्ञानधनं व्यदायि गुरुणा सूत्रादि मे शिक्षया । तद्राजेन्द्रगुरोर्विरच्य गुणमञ्जर्यास्त्वदः प्राभृतम्, तत्स्वीकृत्य गुरो ! ददेऽत्र सफलं कुर्याः सुभक्त्युद्यमम् ॥४॥ इत्येवं प्रार्थयिता मुनि - गुलाबविजयः ।
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy