________________
आगूः कृता न चलिता हि कदापि यस्य,
निर्दोषवाक्यमचलं सदसि प्रजातम् । भूपादयश्च कवयो हृदि दधिरे तत्,
सूर्योदये तमनिशं सुगुरुं हि वन्दे भव्यैर्जनैरिह जगत्यपि सेव्यमाने,
दृष्टा न यत्र कथमष्यभिमानवृत्तिः । सिद्धिस्त्वभूद्वचसि यस्य गुणालयस्य,
सूर्योदये तमनिशं सुगुरुं हि वन्दे षट्शत्रुसंकुलमलं स्ववशं चकार,
द्वाविंशतिं परिषहानजयच्च यो हि । विज्ञानवहिपरिभृष्टभवाब्धिबीजं,
सूर्योदये तमनिशं सुगुरुं हि वन्दे यस्योपकारसहितैव मतिः सदैव,
केनापि सार्धमकरोन च भेदभावम् । सर्वत्र यो मम गुरुर्जयमेव लेभे,
सूर्योदये तमनिशं सुगुरुं हि वन्दे राजेन्द्रसूरिगुरुराजगुणौघरम्यं,
यः संपठिष्यति जनोऽष्टकमेतदच्छम् । स प्राप्स्यति प्रचुरकीर्तियुतां सुलक्ष्मीमित्थं 'गुलाबविजयो' मुनिरत्र चष्टे
॥ ७
॥
॥
८
॥
॥९॥