SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २४. काव्यमाला ये कचिद्गुणगणो गतवान्सहैव वृद्धिं मया नृपतिरेष पुनर्न जाने । मां द्वेष्टि शंसति शमप्रभृतीनितीव यो जातनिर्भररुषा मुमुचे मदेन ॥ ८ ॥ वक्षः श्रियो भुजयुगं वरवीरलक्ष्म्याः कान्तेः शरीरमखिलं हृदयं क्षमायाः । यस्यास्पदं मुखमजायत वाग्विभूते र्नत्वाश्रयाय सकलस्य सतां प्रयासः ॥ ९ ॥ भेजे नितान्तमैजलोsपि नदीनभावं यश्चाभवद्वसुमतीतिर्लेकोऽप्यैशोकः । दोषाकरश्च न बभूव कलाधरोऽपि सर्व हि विस्मयकरं महतां खरूपम् ॥ १० ॥ धर्मोऽर्थसंचय निमित्तमुदारमर्थः कामस्य हेतुरितरः सुखयोनिरेते । यत्र त्रयोऽप्यविरतं न परस्परस्य जैनेश्वरा इव नया विजहुर्व्यपेक्षाम् ॥ ११ ॥ वाञ्छद्भिराश्रयविशेषमिवात्मयोग्यमौदार्यधैर्यविनयादिगुणैरशेषैः । अभ्यर्थितः सततमादरवद्भिरेष बेधाः ससर्ज नृपमालयभूतमेनम् ॥ १२ ॥ भानुर्भवेद्यदि मनागिह, सौम्यरूप स्तेजखितामुपगतो मृगलाञ्छनो वा । धामाधिको विदधदेष जनानुरागं तेनोपैमानपदवीं प्रभुरुद्वहेत ॥ १३ ॥ १. यस्मिन्कस्मिंश्चित्पुरुषे. २. जलरहितः अजड: पण्डितश्च. ३. समुद्रभावं दीनभावं दीनत्वं च न. ४. वृक्षविशेषो ललामभूतश्च ५. वृक्षविशेषः शोकरहितथ. ६. सूर्येण चन्द्रेण च
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy