SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] चन्द्रप्रभाचरितम् । - २५ श्रीकान्तया सरसिजाकरसंनिवासि श्रीकान्तया सकललोकमनोभिरामः । देव्या खकीयवपुरव्यतिरिक्तयाप योगं शशीव कलयामलया स भूपः ॥ १४ ॥ लावण्यसंपदमलाम्भसि संनिमज्ज्य देहं खमुज्वलमिवातितरां विधातुम् । श्लाघ्यः शरद्विशदचन्द्रगभस्तिगौरो यस्यास्तनौ समुदितः सकलो गुणौघः ॥ १५ ।। शीलक्षमाविनयरूपगुणैर्महार्घा मुच्चित्य यामखिलविष्टपसुन्दरीषु । भर्तुर्मनो रमयितुं खसहायभूतां लक्ष्मीरिवादरपरा स्वयमेव ववे ॥ १६ ॥ चन्द्रोज्वलेन यशसा कथितं सुराणा___ मीशस्य संसदि पेरीतवता त्रिलोकीम् । रूपं ग्रहीतुमनसः स्पृहयन्ति यस्या .. देव्यो दिवोवतरणाय तपांसि कर्तुम् ॥ १७ ॥ दोषानुबन्धरहिता तमसा विमुक्ता __ रम्या निजोदयविकासितबन्धुपद्मा । प्राभातिकी द्युतिरिवाम्बुजबान्धवस्य या कान्तिमोषधिपतेः परिभूय तस्थौ ॥ १८ ॥ धर्मार्थयोरविदधत्सविशामधीशो __बाधा विधूपमयशोधवलीकृताशः । साधैं तया प्रणयकोपकृतान्तराणि देव्या सुखान्यनुभवन्दिवसान्निनाय ॥ १९ ॥ कृत्वापरेधुरैखिलावसरं स याव दन्तःपुरं व्रजति किंनरगीतकीर्तिः । १. प्राप्तवान्. २. वेष्टितवता. ३. स्नेहकषायविहितावकाशानि. ४. निखिलकृत्यम्. .
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy