SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] चन्द्रप्रभचरितम् । यस्य प्रतापदहनेन विलङ्ग्यमान- ....... ___ मूर्तिनिरन्तरमरातिगणः समस्तः ।। द्रष्टुं दिशं न विदिशं चकितः प्रभूष्णु. धूकोपमः समभवद्दिरिगह्वरस्थः ॥ २ ॥ यस्य स्फुरद्भिरनुरागकरैर्यशोभि रुद्भासितासु सकलासु दिगङ्गनासु । तन्मात्रकार्यकरणप्रवणाय लोकः शीतांशवे न नितरां स्पृहयांबभूव ॥ ३ ॥ संपूर्णशारदनिशाकरकान्तकीर्ति- ... वल्लीवितानपरिवेष्टितविष्टपान्तः । यः पोषणाद्विनयनाध्यसनापनोदा त्वामी गुरुः सुहृदभूदखिलप्रजानाम् ॥ ४ ॥ यत्र प्रशान्तसकलव्यसने विनीते स्वाभाविकं मतिमहातिशयं प्रपन्ने । चक्रुर्निवासमखिला नरनाथविद्याः पर्युत्सुका इव परस्परदर्शनस्य ॥ ५ ॥ तुङ्गत्वमंद्रिपतिना हरिणेश्वरत्वं शीतांशुना सुभगता वैशिता मुनीन्द्रैः । शौर्य मृगाधिपतिना गुरुणा मनीषा __ गाम्भीर्यमम्बुनिधिना तुलितं यदीयम् ॥ ६॥ नागाः पैदातिवृषभास्तुरगा रथाश्च शोभानिमित्तमभवन्खलु यस्य सर्वे । आक्रम्य मण्डलपतीनखिलान्स यस्मा सौ 'बुभोज वसुधां निजतेजसैव ॥ ७ ॥ १. समर्थः. २. प्रकाशमात्रकार्यकरणसमर्थाय. ३. परिवेष्टितं विष्टपान्तं येन. ४. वुद्धिमाहात्म्यम्. ५. मेरुणा. ६. इन्द्रेण. ७. जितेन्द्रियता. ८. भृत्यप्रधानाः, पदातयो वृषभाश्च वा.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy