SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २३४ सुलभचरित्राणि-२ अन्वयः- क्रमेण पूर्णायुः धीरः भवान् सुरसेनः अभूत्, अनालोचित __तादृग्-वाग, वीरः तु एषः तव अनुजः (अभूत्) ॥४०॥ असाध्यः सर्ववैद्यानामनवद्यौषधीविदाम् । सर्पप्रहतिवाक्पापाज्जिह्वारोगोऽस्य जातवान् ॥४१॥ अन्वयः- अनवद्य-औषधीविदां सर्ववैद्यानाम् असाध्यः अस्य जिह्वा रोगः सर्प-प्रहतिवाक्पापाद् जातवान् ॥४१॥ यतिसंजीवनादेव लब्धरुग्भङ्गलब्धिना । निरासि रसनारोगो महासेनस्य स त्वया ॥४२॥ अन्वयः- यति-संजीवनाद् एव लब्ध-रुग्भङ्ग-लब्धिना त्वया महासेनस्य स रसना-रोगो निरासि ॥४२॥ इति ज्ञात्वा स्ववृत्तान्तं जातजातिस्मृती तदा । सुरसेन-महासेनौ भवात्तौं भेजतुव्रतम् ॥४३॥ अन्वयः- इति स्व-वृत्तान्तं ज्ञात्वा जातजातिस्मृती सुरसेन-महासेनौ तदा भवात्तॊ व्रतं भेजतुः ॥४२॥ व्रतं व्रततिवत् सिक्त्वा तौ चारु चरितामृतैः । धर्मप्रसूनजं मुक्तिफलं कालादवापतुः ॥४४॥ अन्वयः- चारु-चरितामृतैः व्रतं 'व्रततिवत् सिक्त्वा तौ कालाद् धर्म प्रसूनजं मुक्ति-फलम् अवापतुः ॥४४॥ सुरसेन-महासेनदृष्टान्तेनामुना जनाः । अनर्थदण्डं दुःखौघहेतुं त्यजत दूरतः ॥४५॥ १. व्रततिवत् (व्रतति=लता, वेलडी) वेलडीनी जेम । २. प्रसून पुष्प ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy