________________
श्री सुरसेन महासेन चरित्रम्
२३३ अन्वयः- वीरः अपि क्रुधा अभ्यधि, दष्ट-महामुनौ तस्मिन् दुष्टे हते
___अपि धर्मः स्यात्, हतिवाचा पातकं क्व ? ॥३५॥ क्षत्रधर्मो ह्ययं साधुपालने दुष्टनिग्रहे । इत्यसत्यं यदि ततो मज्जिह्वामेतु पातकम् ॥३६॥ अन्वयः- साधुपालने, दुष्टनिग्रहे अयं हि क्षत्र-धर्मः इति यदि असत्यं
ततः मज्जिह्वां पातकम् एतु ॥३६॥ धीरस्त्वचिन्तयन्वाचं तस्यापारकृपारसः । यतीन्द्रं जीवयामास मणिमन्त्रौषधीबलात् ॥३७॥ अन्वयः- तस्य वाचम् अचिन्तयन् (अवगणयन्) मणि अपारकृपारसः
धीरः तु मन्त्र-औषधी-बलाद् यतीन्द्रं जीवयामास ॥३७॥ यतीन्द्रजीवनात्प्रीतिं महानन्दस्य वर्णिकाम् । धारयन्तौ भटस्यैतौ सुतौ सर्वजनस्तुतौ ॥३८॥ पालयन्तौ शुभं धर्मं ज्वालयन्तौ च पातकम् । क्षालयन्तौ च कीर्त्या स्वं सुचिरं तौ ननन्दतुः ॥३९॥युग्मम्॥ अन्वयः- यतीन्द्रजीवनाद् महानन्दस्य 'वर्णिकां प्रीतिं धारयन्तौ,
एतौ भटस्य सुतौ सर्वजनस्तुतौ (अभूताम्) ॥३८॥ शुभं धर्मं पालयन्तौ पातकम् च ज्वालयन्तौ ।
कीर्त्या स्वं क्षालयन्तौ सुचिरं तौ ननन्दतुः ॥३९॥ युग्मम्।। धीरः क्रमेण पूर्णायुः सुरसेनो भवानभूत् । अनालोचिततादृग्वाग्वीरस्त्वेष तवानुजः ॥४०॥
१. वर्णिकां= वानगी, नमूनो ।