SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ २३० राहुमुक्तं रविमिव प्राप्तपूर्वच्छविच्छटम् । तं रोगमुक्तं वीक्ष्याभूल्लोकः सर्वोऽपि सोत्सवः ॥२०॥ अन्वयः - राहु-मुक्तं रविम् इव रोगमुक्तं तं प्राप्त - पूर्व-च्छवि-च्छटं वीक्ष्य सर्वः अपि लोकः सोत्सवः अभूत् ॥२०॥ विशेषतस्ततस्तारे धर्मभारे सहोदरौ । तौ बभूवतुरुद्धासौ शरदीवेन्दु - भास्करौ ॥२१॥ अन्वयः - ततः शरदि इन्दु - भास्करौ इव तौ सहोदरौ तारे धर्मभारे विशेषतः उद्भासौ बभूवतुः ॥२१॥ श्रीभद्रबाहुराचार्योऽवधिज्ञानमधिष्ठितः । सुलभचरित्राणि - २ कदापि तत्पुरोद्यानं द्यामिवेन्दुरभूषयत् ॥२२॥ अन्वयः - कदापि अवधिज्ञानम् अधिष्ठितः श्रीभद्रबाहुः आचार्यः तत् पुरोद्यानं द्याम् इन्दुः इव अभूषयत् ॥२२॥ प्रदक्षिणात्रयेणोपभ्रेमतुर्नेमतुश्च तम् । उपविश्य ततो धर्मदेशनां पपतुश्च तौ ॥२३॥ अन्वयः- ततः तौ तं प्रदक्षिणात्रयेण उपभ्रेमतुः नेमतुः च उपविश्य धर्मदेशनां पपतुः ॥२३॥ सुरसे सुरसेनेन निपीते देशनामृते । अपृच्छयत गुरुर्भ्रातरसनारोगकारणम् ॥२४॥ अन्वयः - 'सुरसे - देशनाऽमृते निपीते ( सति) सुरसेनेन गुरुः भ्रातृरसना - रोगकारणम् अपृच्छयत ॥ २४ ॥ १. सुरस=रसाळ=आह्लादक |
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy