SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २२९ श्री सुरसेन महासेन चरित्रं अन्वयः- तथाभूतं तम् उद्भाव्य, भ्रातृ-स्नेह-वशंवदः, दुःसहं दुर्गन्धं जित्वा समीपगः ॥१३॥ 'असौ रोगः यावद् अस्य अस्ति तावत् किञ्चिद् न आहरे, यदि एषः अनेन म्रियते, ततः अनशनतः म्रिये' ॥१४॥ इति दृढनिश्चयः मुखपातिनी-मीक्षिकाः 'वसनान्तेन वीजयन् स सुरसेनः भ्रातुः अग्रे न्यविशत॥१५||त्रिभिः विशेषकम्।। नमस्काराख्यमन्त्रेणाभिमन्त्र्य प्रासुकं पयः । तं मुहः स्मारयंश्चास्य सिषेच रसनामसौ ॥१६॥ अन्वयः- असौ-नमस्काराख्यमन्त्रेण प्रासुकं पयः अभिमन्त्र्य मुहुः तं स्मारयन् च अस्य रसनां सिषेच ॥१६॥ सेके सेके व्यथाशान्तिर्विशेषं समजायत । क्रमात्तस्य क्षुधार्तस्य कवले कवले यथा ॥१७॥ अन्वयः- क्षुधार्तस्य यथा कवले कवले (तथा)२ सेके सेके क्रमात् तस्य विशेषं व्यथा-शान्तिः समजायत ॥१७॥ निर्व्यथं निव्रणं नीरुग् निर्गन्धं च सुगन्धि च । मुहूर्तात्तन्मुखं जज्ञे व न धर्मः प्रभावभाक् ॥१८॥ अन्वयः- तन्मुखं मुहूर्ताद् निर्व्यथं निव्रणं निरुग् निर्गन्धं सुगन्धि च जज्ञे, धर्मः क्व प्रभावभाग् न ? ॥१८॥ धर्मेणास्तः स रोगः श्राग्मुक्तो वैद्यगणेन यः । भानुच्छेद्यं तमश्छेत्तुं खद्योताः क्व किल क्षमाः ॥१९॥ अन्वयः- यः वैद्य-गणेन मुक्तः सः रोगः ३श्राग् धर्मेण अस्तः । __भानुच्छेद्यं तमः छेत्तुं खद्योताः किल क्व क्षमाः ? ॥१९॥ १. वसनस्य अन्तेन वस्त्रना छेडाथी, २. सेके सेके छांटता छांटता, ३. श्राग्=तुरंत ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy