SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री सिंहश्रेष्ठिचरित्रम् अन्वयः - इति क्रन्दन् नृपः सिंहनाम्नः मित्रस्य, पुत्रस्य च विग्रहम् अग्नौ स्वं च शोकमहानले चिक्षेप ॥६९॥ तयोः सत्त्वातिरेकोक्त्या विबुधैर्बोधितस्ततः । धर्मकर्मठधीः प्राप स्वपुरं भूपुरन्दरः ॥ ६२॥ अन्वयः- तयोः सत्त्व-अतिरेक- उक्त्या विबुधैः बोधितः २धर्मकर्मठधी: भूपुरन्दरः ततः स्वपुरं प्राप ॥६२॥ २०१ वरं तत्याज यः प्राणान्न पुनः स्वीकृतं व्रतम् । स सिंह इव सेवध्वं जना दिग् विरतौ रतिम् ॥६३॥ अन्वयः- यः प्राणान् तत्याज पुनः स्वीकृतं वरं व्रतम्, न ( हे) जना ! स सिंह इव दिग्विरतौ रतिं सेवध्वम् ॥ ६३ ॥ इति श्री सिंहश्रेष्ठिचरित्रं समाप्तम् । अभ्यासः (१) सिंह श्रेष्ठी कस्यां नगर्यां वसति स्म ? (२) सिंह श्रेष्ठी कतिपयानि भूषणानि धारयति स्म ? कानि कानि ? (३) भीमकुमाराय कस्या नगर्याः नृपतिः कन्यकां दातुं निश्चिकाय ? (४) सिंहश्रेष्ठिनः कति योजनानि गन्तुं नियम: आसीत् ? (५) प्रयाणे स्थगिते सति अमात्याः राजकुमारं किम् अचीकथन् ? ९ विग्रहं = शरीरने । २. धर्मकर्मठधीः = धर्मे कर्मठधीः यस्य सः = धर्ममां सक्रिय बुद्धिवाळो । ३. भूपुरन्दरः=राजा ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy