________________
शासनसम्राट्पूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधर पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारद पूज्याचार्यश्रीविजयश्रीकस्तूरसूरिप्रणीतं चन्द्रचरित्रे षष्ठः सर्गः
(उपजातिवृत्तम्) प्रलभ्य दानं क्षितिनायकात् स,
___ नटेश्वरोऽतुल्य॑मवाप हर्षम् । खगोऽपि सन्दर्शनमाप्य वध्वाः,
स्वस्वेष्टलाभोऽस्ति मुदे न कस्य ? ॥१॥ राज्ञा नटात्तं कृकवाकुमग्रे,
सपञ्जरं सन्निधिमानिनाय । श्रीप्रेमलाऽथो प्रसमीक्ष्य तस्मिन्,
बबन्ध रागं कमपि प्रगाढम् ।। २ ॥ प्रेम्णा परित्यज्य च पञ्जरं तद्',
हिरण्मयं तं हृदये बभार । पुनः पुनः सम्मुखमेतदीयं,
खगोऽप्यपश्यत् सहवासमिच्छुः ॥ ३ ॥
१. '-मूल्य-' इति पाठा० ।। २. 'खगोऽपि स प्राप्य वधूसमक्षं, जहर्ष भिक्षुर्धनलाभतश्च (जहर्ष लब्ध्वैव धनानि भिक्षुः-पाठा०) ।।' इति पाठा० ।। ३. 'राजा' इति पाठा० ।। ४. 'तं' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'हिरण्मयं तद्धदये ममज' इति पाठा० ।। ७. 'तत्सङ्गमायेव ददर्श (बभूवपाठा०) पक्षी' इति पाठा० ।।