SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सर्गः (वसन्ततिलकावृत्तम् ) आलोक्य चन्द्रनृपतिः कृकवाकुरूपः, स्वयां प्रियां सदसि राजसमीपसंस्थाम् । सोऽप्याननर्त नटवत् किल पञ्जरस्थः, २१५ प्राप्तिः प्रियस्य विदधाति रसातिरेकम् ।। २२७ ।। दध्यौ च चेतसि वरं 'मम सा विमाता', या मां व्यधात् खगमहं पुनरत्र चाऽऽगाम् । श्रीप्रेमलां निजवधूमवलोकयामि, नो चेत् समागममहं कथमाप्स्यमस्याः || २२८ ।। कल्याणमस्तु नटराजवराय यो मा मत्राऽऽनयत् सुयश एव सदा प्रगायन् । सुप्रातरद्य मम येन हि षोडशाब्दी क्रान्तौ वधूं विमलकान्तिमिमां विलोके ॥ २२९ ।। मां प्रेमला यदि नटात् परिलभ्य पार्श्वे, स्वे स्थापयेन्मम मनोरथ एव सिध्येत् । ऋज्वी च तस्य तनया वितरेत् सुखेना ऽऽवश्यं स्वरूपमहमद्य नरस्य लप्स्ये ' ।। २३० ।। श्रीप्रेमलाऽपि कृकवाकुतनुं पतिं स्वं, दृष्ट्वैव तद्वशमगान्न परं स्मरन्ती । तौ दम्पती च्युतनिमेषदृशेक्षमाणा वन्योऽन्यमापतुरनन्यसमं प्रमोदम् ।। २३१ ।। इति श्रीकस्तूरसूरिविरचिते श्रीचन्द्रचरित्रे पञ्चम सर्गः समाप्तः -- १. 'श्रीप्रेमलां नववधूमधिगम्य हर्षात् ।।' इति पाठा० ।। २. 'जीयान्ममापि खलु वीरमती विमाता' इति पाठा० ।। ३. 'वीतौ' इति पाठा० ।। ४. 'मां चेन्नटस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy