SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४७ सर्गः - ३ भुक्तस्य मे पूर्वदिने बभूवा ऽजीर्णं ततो द्राक्छमलाये राजन् ! अमी मयीते' व्यदधुः समस्तां, वधूवरोद्वाहनिमित्तवार्ताम् ॥ २२२ ॥ असौ कुमारः सुभगो न वेति, मया न दृष्टो नयनेन नाथ !' । इति द्वितीयस्य वचो निशम्य, राजा मृषावादिनमेव मेने ॥ २२३ ॥ ऊचे तृतीयोऽपि, 'यदा विवाह वार्ता बभूवाऽथ तदा नृपस्य । क्रोधादगच्छत् किल भागिनेयो, मां प्रैषयद् बोधयितुं नृपस्तम् ।। २२४ ॥ यदाऽगमं तं परिबोध्य तावत्, कृतं समस्तं खलु तैर्यथावत् । किं कुब्जको वाऽथ स काण एव, __ राजन् ! कुमारो न मया व्यलोकि' ।। २२५ ॥ राजा तदीयं वचनं निशम्य, सविस्मयस्तत्परिबुद्ध्य बुद्धया । मिथ्यावचश्चाऽथ तुरीयमित्र मालोकयामास स भावपूर्णः ।। २२६ ॥ उवाच 'मन्त्रिन् ! वद सत्यवाक्यं, मिथ्यावचोभिर्न मदीयमन्युम् । १. 'मयि गते सति' इति टि० ।। २. 'गतस्य मेऽमी व्यदधुः समस्तं, समागम नैव किलाऽवजग्मुः ।।' इति, 'वधूवरोद्वाहनिमित्तचेष्टितम्' इति च पाठा० ।। ३. 'नृपस्य तस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy