SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४६ यदा वयं सिंहलभूमिनाथ स्याग्रे विवाहस्य कथामकार्षम् ।। २१६ ॥ तदोर्मिकां पाणितले न दृष्ट्वा, तां मार्गितुं यावदगां, तदाऽमी । 'प्रचक्रिरे निश्चयमागतं मां, तथैव सर्वं कथयाम्बभूवुः ।। २१७ ।। अतः कुमारस्य मया न दृष्टं, रूपं कथं नाथ ! निवेद्यतां तत् । यत् तत्र जातं तदहं तवाऽग्रे, न्यवेदयं भूमिप ! सत्यमेव' ।। २१८ ।। राजा तदीयं वचनं निशम्य, चन्द्रराजचरित्रम् छलं विदित्वा न जगाद किञ्चित् । प्रभोः पुरः किं लभते मृषाऽपि, स्थानं कदापि प्रविवेकिनो हि ।। २९९ ।। इत्थं द्वितीयोऽपि जगाद भूपं, 'व्याजं समास्थाय शृणु प्रभो ! मे । नाऽहं तवाग्रे निगदामि मिथ्या, सत्यं यथावत् कथयामि नाथ ! ।। २२० ॥ भुजङ्गमो यद्यपि वक्रगामी, तथाऽपि नासौ स्वविले भुजङ्गः । मिथ्या तवाऽग्रे न कदापि सत्यं, बोभूयते भूमिपुरन्दरस्य ।। २२१ ।। १. 'प्रचक्रतुर्नि -' इति, 'चक्रुर्यथा' इति पाठा० ।। २. ' - भूव' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy