SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४५ सर्गः - ३ आहूय तान् पृच्छ महीश्वर ! त्वं, ते राजपुत्रं ददृशुर्न वेति ॥ २१० ॥ यदि स्वरूपं कनकध्वजस्य, दृष्टं वदिष्यन्ति तदा त एव । चेत्कङ्कणं हस्ततले तदा नो, प्रयोजनं स्यान्मुकुरस्य राजन् !' ॥ २११ ॥ इति प्रधानस्य वचो निशम्य, प्रहृष्य तानाह्वयति स्म भूपः । तानागतान् प्रेक्ष्य जगाद 'यूयं, ब्रूताऽत्र सत्यं नृपतेः सभायाम् ॥ २१२ ॥ श्रीप्रेमलायाः कनकध्वजेन, सार्द्ध विवाहाय गता हि यूयम् । तत्र स्वनेत्रैर्नृपनन्दनस्यै क्षिध्वं न वा किं वदत स्वरूपम् ।। २१३ ।। अप्यल्पमात्रं न मृषाऽभिधत्त, यथार्थवाचं कथयध्वमाशु । पापं न कस्याऽपि कदापि लोके, प्रच्छादितं तिष्ठति मन्त्रिमुख्याः !' ॥ २१४ ॥ इत्थं महीपस्य वचो निशम्य जगाद कोऽप्यन्यतमश्छलेन । 'त्वत्तो न किञ्चिद्वचनं सुगुप्तं, संतिष्ठते क्वाऽपि महेन्द्रकल्प ! ॥ २१५ ॥ तवाऽस्मि भृत्यः परिपोषितश्च, वदामि सत्यं शृणु नाथ ! वाक्यम् ।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy