SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११० चन्द्रराजचरित्रम् प्रसीद मन्युं विजहीहि, तेऽथ-, च्छिद्रं कदाचिन्न विलोकयेत ॥ ३१ ॥ विद्योग्रशक्तिर्ननु चाऽसि मातः!, देवैस्तथाऽन्यैश्च सदाऽप्यधृष्या । ततो न ते रोष इहाऽस्ति युक्तः, शक्तिः सतां पीडितरक्षणाय ।। ३२ ।। अयं पतिर्मे प्रियपुत्रतां ते, समञ्चति प्राणसमानतां च । तव प्रसादाद् बहुसौख्ययोग्यो, न दण्डनीयोऽपि तु पालनीयः२ ।। ३३ ॥ चेद् वाच्यमास्ते वद मां समस्त-, माज्ञां करिष्ये सततं तवाऽहम् । न प्रार्थनां मोघयति क्व चाऽपि, भवादृशी लोकविभूषणा या' ।। ३४ ।। इत्थं स्ववध्वा वचनं निशम्य, सा तां जगादाऽऽशु बिभीषणास्या । 'दूरं व्रज त्वं नहि वेत्सि किञ्चित्, त्यक्ष्यामि नैतं कुटिलं कदापि ॥ ३५ ॥ लक्षेण वा ते वचसो न चाहं, __ मोक्ष्यामि, सत्यं प्रवदामि चैतत् । १. 'जहीहि कोपं द्विरदो न कीटे, रुषं कदाचिद् विदधाति नीचे । अतस्तृणेऽस्मिन् नहि शोभते ते, क्रोधः समाने खलु भाति सम्यक् ।।' इति पाठा० ।। २. 'तव प्रसादाद् विपुले च राज्ये, निःशङ्कितस्तिष्ठति मुञ्च तस्मात्' इति पाठा० ।। ३. '-वचनैरहं न' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy