SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सर्गः व्यधत्त' पाणिग्रहणं तदैव स, ३ नृपाङ्गजाया विमलापुरं गतः । मया भवत्यै कथितं तदैव यत्', त्वया न तत् सत्यतयोपलक्षितम् ।। १७ । जगत्यनेका विदुषी महीयसी, पुमांसमत्येतुमसौ प्रभुहि । पतिं स्वकीयं तच्छलयन्त्यहं स्वयं, छले निमग्ना दुरदृष्टतो हहा ! ।। १८ ।। छलेऽतिनिष्णैरपि यः परैर्नृपः प्रतारितो जातु न स स्त्रिया कथम् । प्रतारणीयो, न हि सङ्गतं मया, व्यधायि तावत् तव सङ्गदोषतः ५ ।। १९ ।। त्वदीयवाक्यं न मया पुनस्तथा, करिष्यते प्रेरितयाऽपि जातुचित् । कया स्वभर्तुर्विपरीतचेष्टितं, १०७ विधीयते कोपनयाऽपि योषिता ।। २० ।। विराजतां ते सकला कला ततो, न मेऽधुना किञ्चिदपि प्रयोजनम् । १. 'विधाय' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'विचिन्तितं तच्छलयाम्यहं तदा, स्वयं च हाऽहं परिवञ्चिताऽभवम्' इति पाठा० ।। ४. 'विपक्षपक्षाश्रितभूभुजा च्छला-न्न वञ्चितो यः, स कथं स्त्रिया पुनः' इति पाठा० ।। ५. इतोऽग्रे - 'तदस्य मेऽभूत् फलमीदृशं, यया, सदैवमेव क्रियते, हि सा पुनः । ' अमूदृशं चेद् विदधीत कर्हिचिद्, भवेच्च मद्वद् विपदास्पदं तदा ।। ( ' प्रभुर्भवेत् कर्तुममूदृशं यदा, ममैव तत् स्याद् विपदास्पदं तदा । । ' इति पाठा० )
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy