SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयश्रीकस्तूरसूरिप्रणीते चन्द्रचरित्रे तृतीयः सर्गः (पृथ्वीवृत्तम्) स्फुरत्फणिफणावलीसुललितातपत्रः सदा, मृगाङ्कमधुरच्छविर्वरतनुर्महोमण्डितः । विमुक्तिवरसुन्दरीकरनिपीडनप्रोल्लस नमजनसुरद्रुमो विजयतां स पार्श्वः प्रभुः ।।१।। (उपजातिवृत्तम् १२+१२) चन्द्रेण वाग्भिर्बहु बोधिताऽपि, गुणावली नैव गता प्रतीतिम् । कृतोऽपराधो हि जनस्य चित्तं, ___ करोत्यनास्थाग्रसितं प्रसह्य ।। २ ॥ कृताञ्जलिः साऽथ नृपं जगाद, 'सत्यं मदुक्तं न पुनर्मूषोद्यम् । स्वप्जेक्षितस्वीयमृतिः पुनर्ना, जानाति किं तदूतमस्तनिद्रः२ ? ॥ ३ ॥ रात्रौ मया जागरितं, न तेऽभूद, विश्वास इत्यत्र न काऽपि तेन । १. 'प्रभावपिहितप्रभाकररुचिश्चिरं राजति ।' इति पाठा० ।। २. 'कृताञ्जलिः स्वामिनमाजगाद, गुणावली नाथ ! वदाऽऽशु तथ्यम् । न जातुचित् स्वप्नवचो यथार्थं, प्रमन्यते कोऽपि विचक्षणोऽत्र ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy