SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पूज्याचार्यवरेण्य-श्रीविजयोदयसूरीश्वराणाम् गुणसङ्कीर्तनम् । म - पं. हेमचन्द्रविजयो गणिः (राजनगरम्) (आर्या-वृत्तम्) जिनवर-शासन-भासन-निरतः शरद्रभ्रशुभ्रकीर्तिभरः ।। श्री विजयोदय सूरि-र्जयति सदा सूरि मूर्घन्यः ॥१॥ सुरतरुरिव सकलार्थित-कर्ता श्री स्तंभनाधिपति पार्श्वः । यत्र विराजति तस्मिञ्-जनिरजनि स्तंभने यस्य ॥२॥ पूर्वाद्भूतसंस्कारा-दुपदेशान्नेमिसूरिसम्राजः । संसारानिर्विण्णः, प्रवव्रजे यो नवे वयसि ॥३॥ गुरुपदकमलसमर्पित-सर्वस्वः स्वल्पकालयोगेन । यः पूर्वाधिगतमिव, स्वीचक्रे सकलशास्त्रार्थम् ॥४॥ एकत्र सर्वविद्याः, सहवासविधित्सया मिथः स्नेहात् । वयं गुणगणनिलयं, दयितं यं वव्रिरे त्वरितम् ॥५॥ षड्दर्शन तत्त्वानां, स्याद्वादनयेन देशनां यस्य । श्रुत्वा नाम विपश्चि-न चालयेत्कः स्वमूर्धानम् ॥६॥ यस्य जगद्विस्मयक्-च्छिल्पमुहूर्तादि शास्त्र-नैपुण्यम् । सार्वाऽऽगमोपनिषदो, ज्ञानं चासीत् सुविख्यातम् ॥७॥ श्रमणादिभ्यो योऽदा-दागम-शास्त्रादि-वाचनामनिशम् । तीर्थोद्धृतिसत्कृत्यं, कारितवान् स्वोपदेशेन ॥८॥ श्रुतपर्यायवयोभि-वृद्धो गीतार्थशेखरः श्रीमान् । प्रविदित-परोपकारः, प्रशमनिधिः प्रवरपाण्डित्यः ॥९॥ जलधिरसप्रमित समान् प्रपाल्य सत्संयम पुरे भावे स्वरलंचकार सारं, दद्यादुदयं सदा सोऽयम् ॥१०॥ पूज्याचार्यवरेण्य-श्रीविजयोदयसूरीश्वराणाम् गुणसङ्कीर्तनम् 137
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy