________________
दशवैकालिकं-टीकात्रिकयुतम्
विशेष्यन्ते-संयमे, चशब्दात् तपसि च युक्तानां अभियुक्तानां, लघुभूतविहारिणां लघुभूतोवायुस्ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषां निगमनक्रियापदमेतदिति ।।३.१० ।।
३०
पंचासवपरिन्नाया, तिगुत्ता छसु संजया ।
पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ||३.११।।
(ति.) किमित्येतदेषामनाचीर्णं यत एते एवम्भूता भवन्तीत्याह - पञ्चाश्रवाःहिंसादयः, ते परिज्ञाताः-प्रत्याख्याता यैस्ते पञ्चाश्रवपरिज्ञाताः। 'आहिताग्न्यादेराकृतिगणत्वात् परिज्ञातपञ्चाश्रवा इत्यर्थः । त्रिगुप्ताः- त्रिभिर्मनोवाक्कायैर्गुप्ताः षड्जीवनिकायेषु-पृथिव्यादिषु । सम्यग्यताः । पञ्चेन्द्रियाणि निगृह्णन्तीति पञ्चनिग्रहणाः । "कृत्यल्युटोऽन्यत्रापि च " [कातन्त्र व्याकरणे] इति कर्तरि युट् । धिया राजन्तीति धीराः- बुद्धिमन्तः स्थिरा वा । निर्ग्रन्थाः । ऋजुं मोक्षं प्रति सरलमार्गकल्पं संयमं पश्यन्तीत्येवंधर्माणः ऋजुदर्शिनः । । ३.११ ।।
(स.) किमित्यनाचरितं यतस्त एवंभूता भवन्तीत्याह - पंचासव' इति - किंभूतास्ते साधवः ? पंच च ते आश्रवाश्च पञ्चाश्रवा हिंसादयः परि समन्ताद् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याता यैस्ते पञ्चाश्रवपरिज्ञाताः, यतः कारणात् त एवंभूताः, अतएव त्रिगुप्ता मनोवाक्कायगुप्तिभिर्गुप्ताः पुनः किंभूताः ? छसु संजयाषट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यता यत्नवन्तः पुनः किं० ? पंचनिग्रहणाः, पंचानामिन्द्रियाणां निग्रहणा निरोधकर्तारः पुनः किंभूताः ? धीरा बुद्धिमन्तः स्थिरा वा, पुनः किंभूताः साधवः ? ऋजुदर्शिनः, ऋजुर्मोक्षं प्रति ऋजुत्वात् संयमस्तं पश्यन्ति उपादेयतया इति ऋजुदर्शिनः संयमप्रतिबद्धाः ।।३.११ ।।
.
(सु.) किमिति अनाचरितं ? यतस्ते एवम्भूता भवन्तीत्याह
'पंचासव' इत्यादि पञ्चाश्रवा - हिंसादयः परिज्ञाता द्विविधया, परिज्ञया- ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च । परि - समन्तात् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, यतश्चैवम्भूता अत एव त्रिगुप्ता मनोवाक्कायगुप्तिभिः गुप्ताः, षट्सु संयताः षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, पञ्च निग्रहणा इति निगृह्णन्तीति निग्रहणाः पञ्चानां १. 'आहिताग्नि'-आदिषु [सि.हे.. १. १५६ ] इति सूत्रेण बहुव्रीहि समासे कृतान्तं पदं वा प्राक् भवति । २. 'कातन्त्रव्याकरणे तु' कृत्ययुहोऽन्यत्रापि च ' एवं सूत्रं झ्कृत् सूत्रतः पञ्चमपादे ९२ तमम् ।