SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तृतीयम् अध्ययनम् ३१ निग्रहणाः, पञ्चानामिन्द्रियाणां धीरा - बुद्धिमन्तः, स्थिरा वा निर्ग्रन्थाः - साधवः, ऋजुदर्शिनः इति ऋजुः- मोक्षं प्रति ऋजुत्वात् संयमः, तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनःसंयमप्रतिबद्धा इति ।।३.११।। आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ।।३.१२ । । (ति.) ते च यथाकालं यथाशक्त्यैतत् कुर्वन्ति आतापयन्ति-आतापनां कायोत्सर्गस्थाः सहन्ते ग्रीष्मेषु । हेमन्तेष्वप्रावृत्ताः - अप्रावरणाः शीतं सहन्ते । वर्षासु प्रतिसंलीनाः- आश्रये एव गुप्ताङ्गाः सन्ति । संयताः साधवः । सुसमाहिताः- सुष्ठु समाधानभाजः ।।३.१२।। (स.) ते ऋजुदर्शिनः कालं प्रस्तावमधिकृत्य यथाशक्ति एवं कुर्वन्ति, तथाहिआया'इति-आतापयन्त्यूर्ध्वस्थानादिनाऽऽतापनां कुर्वन्ति, कदा ? ग्रीष्मेषूष्णकालेषु, पुनः कीदृशाः ? हेमन्तेषु शीतकालेष्वप्रावृताः प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु वर्षाकालेषु प्रतिसंलीना एकाश्रयस्था भवन्ति संयताः साधवः पुनः किंभूताः ? सुसमाहिता ज्ञानादिषु यत्नपराः ।।३.१२ ।। (सु.) ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्या एतत् कुर्वन्ति - 'आयावयन्ति’ आतापयन्तीत्यूर्ध्वस्थानादिना आतापनां कुर्वन्ति ग्रीष्मेष्विति - उष्णकालेषु, हेमन्तेषु - शीतकालेषु अप्रावृता इति- प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु-वर्षाकालेषु प्रतिसंलीना इत्येकाश्रयस्था भवन्ति, संयताः - साधवः सुसमाहिता- ज्ञानदर्शनादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति ।।३.१२।। परीसहरिऊदंता, 'धुयमोहा जिइंदिया । सव्वदुक्खपहीणट्ठा, पक्कमंति महेसिणो ।। ३.१३ ।। ( ति . ) किञ्च - परीषहाः क्षुदाद्याः । तद्यथा - खुहा पिवासा सीउन्हं, दंसा चेलारइत्थिओ | चरिया 'निसीहिया 'सिज्जा, अक्कोस वह जायणा ||१|| १. धू. ४ मुद्रिते च ।। २. वसति ३ टि. ।। ३. संस्तारकः ४ टि. ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy