SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तृतीयम् अध्ययनम् धूवणे त्ति वमणे य, वत्थीकम्म-विरेयणे । अंजणं दंतवणे य, गायाभंग - विभूसणे ।।३.९ ।। २९ ( ति.) तथा - धूपनम् - वस्त्रादेः, अनागतव्याधिनिवृत्तये धूमपानं वा वमनम्निःकारणं मदनफलादिना । वस्तिकर्म-पुटकेनाऽपाने स्नेहदानम् । विरेचनम्हरीतक्यादिना । अञ्जनम् - दृशोः । दन्तवनम् - दन्तकाष्ठं प्रतीतम् । गात्रस्याभ्यङ्गःतैलादिना । विभूषणम् - विलेपनादि ।।३.९ ।। · (स.) धूवणेत्ति - धूपनमात्म-वस्त्रादेः सौगन्ध्यनिमित्तम्, अथवाऽनागतव्याधिनिवृत्तिनिमित्तं धूमपानमित्यन्ये व्याख्यानयन्ति वमनं च मदनफलादिना वान्तिः, तथा बस्तिकर्म पुण्ड्रकेणाधिष्ठाने स्नेहदानं. विरेचनं दन्त्यादिना, तथाञ्जनं रसाञ्जनं. दन्तकाष्ठं च प्रतीतमेव. तथा गात्राभ्यङ्गस्तैलादिना. विभूषणं गात्राणामेव । । ३.९ ।। (सु.) 'धूवणे'त्ति धूपनमिति - आत्म-वस्त्रयोरनाचरितमिति, प्राकृतशैल्याऽनागतव्याधिनिवृत्तये धूमपानमिति अन्ये व्याचक्षते ४५, वमनं च मदनफलादिना ४६, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४७, विरेचनं दन्त्यादिना ४८ तथा अञ्जनं रसाञ्जनादि ४९, दन्तकाष्ठं च प्रतीतं ५०, गात्राभ्यङ्गस्तैलादिना ५१, विभूषणं गात्राणामेवेति ५२ । ।।३.९।। सव्वमेयमणाइन्नं, निगंथाण महेसिणं । संजमंमि य जुत्ताणं, लहुभूयविहारिणं ।।३.१० ।। (ति.) निगमनमाह – सर्वमेतद् - औद्देशिकादि, अनाचीर्णम् । निर्ग्रन्थानां महर्षीणा । संयमे चशब्दात्-तपसि च युक्तानाम्-उद्यतानाम् । लघुभूतविहारिणाम् - लघुभूतो वायुः, तद्ववद् (अ) प्रतिबद्धतया विहारो येषां ते तथा तेषाम् ।।३.१० ।। (स.) अथ क्रियासूत्रमाह—- सव्वमिति - सर्वमेतत्पूर्वोक्तद्वि' - पंचाशद्भेदभिन्नमौद्देशिकादिकं यदनन्तरमुक्तं तत् सर्वमनाचरितं ज्ञातव्यं केषाम् इति ? - आह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः. किंभूतानां ? संयमे, चशब्दात् तपसि युक्तानां पुनः किंभूताना ? लघुभूतविहारिणां, लघुभूतो वायुस्तद्वद- प्रतिबद्धतया विहारो येषां ते ।।३.१०।। (सु.) क्रियासूत्रमाह-'सव्वमेयं इति' सर्व्वमेतद् - औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितं, केषाम् इति ? - आह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव १. चूर्णिसंमत्या 'द्वि' इति कृतम्
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy