SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४६ मभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति, ततः सामस्त्येन यथोक्तप्रतरद्वयस्पशिनोऽतिबहव इति पूर्वेभ्योऽसङ्खयेयगुणाः २। तेभ्यः चतुर्थे त्रैलोक्ये सङ्खयेयगुणाः, यतो भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवास्तथाविधप्रयत्नविशेषवशतो वैकियसमुद्घातेन त्रीनपि लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्ख्येयगुणाः केवलवेदसोपलभ्यन्ते ३। तेभ्यो द्वितीयेऽधोलोकतिर्यग्लोके सङ्ख्येयगुणाः, तद्धि प्रतरद्वयं भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया स्वस्थानं, तथा बहवो भवनपतयः स्वभवस्थास्तियंग्लोकगमागमेन तथोद्वर्तमानास्तथा वैक्रियसमुपदातेन समवहतास्तिर्यग्लोकस्थास्तियक्पञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयस्पर्शिनोऽतिबहव इति सङ्खयेयगुणाः ४ । तेभ्यः षष्ठेऽधोलोके सङ्खथेयगुणः, भवनपतीनां स्वस्थानत्वात् ५। तेभ्यस्तृतीये तिर्यग्लोके सङ्ख्येयगुणाः, ज्योतिष्कव्यन्तराणां स्वस्थानत्वात् ६। एवं देव्योऽपि । इदमौधिक देवदेवीविषयमल्पबहुत्वमुक्तम् । विभागतस्तु चतुगतिनिकायदेवदेव्यल्पबहुत्वाष्टकं पर्याप्तापर्याप्तैकेन्द्रियादिपृथ्व्यादीनां पृथगल्पबहुत्ववृन्दं च सभावनं प्रज्ञापनासूत्रवृत्तिभ्यां ज्ञेयम् ॥ १०२ ॥ द्वारम् २४ ॥ आउयबंध १ अपज्जत्त २ सुत्त ३, सम्मोहया य ४ सायगया।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy