SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५० अक्खोवउत्त ६ अणगारु वउत्ता ७, संखगुणिया उ॥१०३॥ . स्तोका आयुष्कर्मणो बन्धकाः, तद्वन्धकालस्य भवत्रिभागादेः प्रतिनियतत्वात् १ । तेभ्योऽपर्याप्ताः सङ्खयेयगुणाः, यतोऽपर्याप्ता भवत्रिभागाद्यवशेषायुषः परभवायुबन्धन्ति । ततो द्वौ त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादबन्धकालः सङ्खयेयगुणस्तेन सङ्खयेयगुणा एवापर्याप्ता आयुबन्धकेभ्यः २। तेभ्यः सुप्ताः सङ्कथेयगुणाः, यतोऽपर्याप्तेषु पर्याप्तेषु च सुप्ता लभ्यन्ते । पर्याप्ताश्चापर्याप्तेभ्यः सङ्खयेयगुणाः । एतच्च सूक्ष्मजीवानधिकृत्य वेदितव्यम् । सूक्ष्मेषु बाह्यो व्यघातो न भवति, ततस्तदभावादहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिरिति ३। तेभ्यः समवहताः सङ्खयेयगुणाः, बहूनां पर्याप्तेष्वपर्याप्तेषु च मारणान्तिकसमुद्घातेन समवहतानां लभ्यमानत्वात् ४ । तेभ्यः सातवेदकाः सङ्ख्येयगुणाः, आयुर्वन्धकापर्याप्तसुप्तेष्वपि सातवेदकानामपि लभ्यमानत्वात् ५ । तेभ्य इन्द्रियोपयुक्ताः सङ्खयेयगुणाः, असातवेदकेष्वपीन्द्रियोपयोगस्य भावात् । तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् ७ ॥ १०३ ॥ एएसिं पडिवक्खा पडिलोमं पढम इत्थ संखगुणा । सेसा छावि कमेणं विसेसअहिया मुणेयव्वा ॥१०४॥
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy