________________
तन्दु लगैचारिकप्रकोर्णकम्
येषां ते तथा अचण्डा-न तीवकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः, मध्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति-वणिग्जनोचितवाणिज्यकलोपजीविनः एते न भवन्ति, तेषां सर्वेषां अहमिन्द्रत्वात् इति 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं-आकालमाचासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान-मनोवाञ्छितान् कामान्-शब्दादीन कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु-गृहसदृशेषु वृक्षषु-कल्पद्रुमेषु कृतोनिष्पादितः निलयः-आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः ।
यदुक्तं प्रवचनसारोडारवृत्तौ यथा-मत्ताङ्गदाः १ भृताङ्गाः २ त्रुटिताङ्गाः३ दीपाङ्गाः ४ ज्योतिरङ्गाः ५ चित्राङ्गाः ६ चित्ररसाः ७ मण्यङ्गाः ८ गेहाकाराः ह अनग्नाः १०, तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुवित्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपू
र्णानि स्फुटित्वा २ मा मुश्चन्तीति १, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि दृश्यन्ते तथैव विस्त्रसापरिगतैःस्थालकच्चोलकंसकरकादिभिर्भाजनैरिव फलैरुपशोभमानाः प्रेक्ष्यन्ते २, त्रुटिताङ्गषु सङ्गतानि सम्यग् यथोक्तरीत्या सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणि ततविततघनशु