________________
७२ ] तन्दुलवैचारिकप्रकीर्णकम् प्रमाणाहारकाः एकान्तराहारेच्छकाः ३, षट्पश्चाशदन्तीपे तु मनुष्याः अष्टधनुःशतप्रमाणशरीरोच्छ्याः चतुर्थाशिनः चतुःपष्टिपृष्ठकरण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षाः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि युगलजीवाः निजायुःसमे देवे हीनायुषि देवे वा उत्पद्यन्ते, सर्वयुगलजीवाः हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपराङ्मुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विस्रसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति २।
तथा ते मनुष्याः 'णं' वाक्यालङ्कारे प्रकृत्या-स्वभावेन भद्रकाः परानुपतापहेतुकायवाङ्मनश्चेष्टाः प्रकृत्या-स्वभावेन न तु परोपदेशतः विनीताः-विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदुमनोज्ञं परिणामसुखावहं यन्मार्दवं तेन सम्पन्नाः मृदुमादेवसम्पन्नाः न कपटमादेवोपेता इत्यर्थः, आ-समन्तात् सर्वास क्रियासु लीना-गुप्ता आलीनाः-नोल्वणचेष्टाकारिण इत्यर्थः भद्रका:-सकलतत्क्षेत्रोचितकल्याणभाविनः विनीता:-बृहत्पुरु पविनयकरणशीला अल्पेच्छा:--मणिकनकादिविषयप्रतिबन्धर हिताः अत एव 'असंनि' न विद्यते सन्निधिरूपः सञ्चये