SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७४ ] तन्दुलगैचारिकप्रकीर्णकम् पिरकाहलकादीनि ३, दीपाङ्गाः यथेह स्निग्धं प्रज्वलन्त्यः काञ्चनमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वत् दीपाङ्गाः विस्रसापरिणताः, प्रकृष्टोद्दयोतेन सर्व मुद्योतयन्तो वर्तन्ते ४, ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति ५, चित्राङ्गषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति ६, चित्ररसाः भोजनार्थाय भवन्ति, कोऽथः ?-विशिष्टदलिककलमशालिशालनकाः पक्कानप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्णैः फलमध्ये विराजमानाचित्ररसाः संतिष्ठन्ते इति ७ मण्यङ्गषु वराणि भूषणानि विस्रसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति ८, गेहाकारनामकेषु कल्पद्रुमेषु विस्रसापरिणामत एव प्रांसुप्राकारोपगूढ सुखारोहसोपानपक्तिविचित्रचित्रशालोचितकान्तानि अनेकसमप्रकटापवरककुट्टिमतलाधलङ्कृतानि नानाविधानि निकेतनानि भवन्ति है, अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि विलसात एवातिसूक्ष्मसुकुमारदेवदृष्यानुकाराणि मनोहारीणि निर्मलानि उपजायन्त इति १०।। 'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवीपुष्पफलानि च कल्पद्माणामाहारो येषां ते तथा, 'ते मणुयगणा' ते मनुजगणा:-युगलधार्मिकवृन्दाः 'णं' वाक्यालङ्कारे प्रज्ञप्ता जगदीश्वरैः, यदुक्तं जीवाभिगमवृत्ती
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy