________________
२ ]
तन्दुलवैचारिक प्रकीर्णकम्
श्रमणा आसीरन्, तेरेकैकस्य विरचितत्वात् १, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरन्नजितादीनां मध्यम' जिनानां यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिन: ३ इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति -
निज्जरियजरामरणं वंदित्ता जिणवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥ १ ॥
'निज्जरिय' ० निर्जरितं सर्वथा क्षयं नीतं जरा च वृद्धत्वं मरणं च पञ्चत्वं जरामरणं यद्वा जरया - वृद्धभावेन जरायां- वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामर - णस्तं वन्दित्वा कायवाङ्मनोभिः नत्वा जिना: - रागद्वेषादिजयनशीलाः सामान्य केवलिनस्तेषु तेभ्यो वा वरः - प्रधा नोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समवायाङ्गोक्तं यथा- 'चोत्तीस वुद्धाति सेसा पं० तं०
१. ० नामपि जिनानामित्यपि । २. तानि च तीर्थस्वामिस्वहस्तदीक्षित्साधुविरचितानि वा तीर्थकर तीर्थसाधुविरचितानि वा प्रत्येकबुद्धविरचितानि वेति, अत्रादौ ग्रन्थकारो मङ्गलाद्यभिधानाय गाथामाहेत्यपि ।
·