SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् [६३ मांसलौ रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशौ, तथा संस्थिताः-संस्थानविशेषवन्तः उपचिताः-सुनिचिताः घनाः-बहुप्रदेशाः स्थिरा:-सुबद्धा स्नायुभिः सुष्ठु बद्धाः सुवृताः-अतिशयेन वतु लाः सुश्लिष्टाः-सुघनाः लष्टा:-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलौलोहिताधोभागौ ‘उवचिय'त्ति औपचयिको उपचयनिवृत्तौ उपचितौ वा मृदको-कोमलौ मांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्षचन्द्रादित्यादिचिह्नौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणीकरौ येषां ते तथा, पीवरा:--उपचिता वृत्ताः-वर्तुलाः सुजाता:सुनिष्पन्नाः कोमलाः वराः अमुल्य:-करशाखा येषां ते तथा, ताम्राः--अरुणाः तलिना:-प्रतलाः शुचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह शशिरविशङ्खचक्रस्वस्तिकरूपाः विभक्ता-विभागवत्यः सुविरचिताः-सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नतौ
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy